|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.15. अध्यायः 015
Mahabharata - Bhishma Parva - Chapter Topics
दुर्योधनेन दुःशासनंप्रति भीष्मरक्षणाज्ञापनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-15-0x(3990)(39213)
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि।
न तु दुर्योधने दोषमिममासङ्क्तुमर्हसि ॥ 6-15-1(39214)
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः।
एनसा तेन नान्यं स उपाशङ्कितुमर्हति॥ 6-15-2(39215)
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ 6-15-3(39216)
निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूतः सहामात्यैः क्षान्तश्च सुचिरं वने ॥ 6-15-4(39217)
हयानां च गजानां च राज्ञां चामिततेजसाम्।
प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥ 6-15-5(39218)
शृणु तत्पृथिवीपाल मा च शोके मनः कृथाः ।
दिष्टमेतत्पुरा नूनमिदमेव नराधिप ॥ 6-15-6(39219)
नमस्कृत्वा प्रवक्ष्यामि पाराशर्याय धीमते।
यस्य प्रसादाद्दिव्यं तत्प्राप्तं ज्ञानमनुत्तमम् ॥ 6-15-7(39220)
दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च ।
परचित्तस्य विज्ञानमतीतानागतस्य च ॥ 6-15-8(39221)
व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः शुभा ।
अस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥ 6-15-9(39222)
श्रृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् ।
भरतानामभूद्युद्धं यथा तद्रोमहर्षणम् ॥ 6-15-10(39223)
तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः ।
दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥ 6-15-11(39224)
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः।
अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥ 6-15-12(39225)
अयं स मामभिप्राप्तो वर्षपूगाभिचिन्तितः ।
पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥ 6-15-13(39226)
नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात्।
हन्युद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥ 6-15-14(39227)
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनाम् ।
श्रूयते स्त्री ह्यसौ पूर्वं तस्मादूर्त्यो रणे मम ॥ 6-15-15(39228)
तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः।
शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥ 6-15-16(39229)
तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः ।
सर्वथाऽस्त्रेषु कुशलास्ते रक्षन्तु पितामहम् ॥ 6-15-17(39230)
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् ।
मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ 6-15-18(39231)
वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्।
गोप्तारौ फाल्गुनं प्राप्तौ फाल्गुनोपि शिखण्डिनः । 6-15-19(39232)
संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः ।
यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥ ॥ 6-15-20(39233)
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि पञ्चदशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-15-1 आसङ्क्तं आसञ्जयितुम् ॥ 6-15-2 एनसा पापेन ॥ 6-15-9 व्युत्थितस्य उच्छास्त्रवर्तिन उत्पत्तिः कारणं तस्य विज्ञानम् ॥ 6-15-11 व्यूढेषु व्यूहरचनया स्थितेषु ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|